पूर्वम्: ५।२।१०८
अनन्तरम्: ५।२।११०
 
सूत्रम्
गाण्ड्यजगात् संज्ञायाम्॥ ५।२।१०९
काशिका-वृत्तिः
गाण्ड्यजगात् संज्ञायाम् ५।२।११०

गाण्दी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे। गान्दीवं धनुः। अजगवम् धनुः। ह्रस्वादपि भवति गाण्डिवं धनुः इति। तत्र तुल्या हि संहिता दीर्घह्रस्वयोः। उभयथा च सूत्रं प्रणीतम्।
न्यासः
गाण्ड�जगात्संज्ञायाम्?। , ५।२।१०९

"ह्यस्वादपि भवति" इति। कथं पुनर्दीर्घस्य ग्रहणे ह्यस्वादपि भवतीति? "तत्र तुल्या हि" हत्यादि। यादृशी दीर्घस्येह संहिता ह्यस्वग्रहणेऽपि तादृश्येव दृश्यते। तस्मात्? ह्यस्वस्यापि ग्रहणमिह न विरुध्यत इति भावः। तत्र चैतत्? स्यात्()--यद्यपि तुल्या संहिता, तथापि कृतयणादेशोऽयमेक एव शब्दः, तस्य स्वरूप इत्यन्यतरस्य परिग्रहणेन भवितव्यम्()। तत्र यदि दीर्घत्य ग्रहणं ह्यस्वान्न प्राप्नोति, अथ ह्यस्वस्य ग्रहणं दीर्घन्न प्राप्नोतीत्यत आह--"उभयथा" इति। उभयप्रकारं ह्राचार्येण प्रणीतं सूत्रम्()। तस्मादुभयोरपि ग्रहणमित्यदोषः। अथ संज्ञाग्रहणं किम्(), यावतेतिकरणस्य चानुवृत्तेरसंज्ञायां न भविष्यति, यथा द्युद्रभ्यां मप्रत्ययः? एवं तर्हि तस्यैवेतिकरणस्य प्रपञ्चः संज्ञाग्रहणमिति द्रष्टव्यम्()॥
बाल-मनोरमा
गाण्ड�जगात्संज्ञायाम् १८९१, ५।२।१०९

गाण्ड()जगात्संज्ञायाम्। ह्यस्वदीर्घयोरिति। गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड() इति युगपन्निर्देशः--"ख्यत्वात्परस्ये"त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः। ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः। रूढशब्दत्वादिह न मतुप्समुच्चयः।

तत्त्व-बोधिनी
गाण्ड�जगात्संज्ञायाम् १४५५, ५।२।१०९

संज्ञायामिति। "तदस्यास्ती"ति सूत्रस्थेतिशब्दस्यैवायं प्रपञ्चः।यणेति। "ख्यत्या"दिति वत्कृतयणादेशस्यानुकरणं न भवति, लक्ष्ये यणोऽभावात्। किं तु सूत्रे सांहितिकोऽयं यणिति भावः। प्रयिज्यते चोभयथा---"अधिरोहति गाण्डिवं महेषौ"। "गाण्डीवी कनकशिलानिबं भुजाभ्या"मिति च।